MCQ Questions for Class 9 Sanskrit Chapter 3 गोदोहनम् with Answers

Do you need some help in preparing for your upcoming Sanskrit exam? We’ve compiled a list of MCQ Questions for Class 9 Sanskrit with Answers to get you started with the subject,गोदोहनम् Class 9 MCQs Questions with Answers PDF. You can download NCERT MCQ Questions for Class 9 Sanskrit Chapter 3 गोदोहनम् with Answers Pdf free download and learn how smart students prepare well ahead.

गोदोहनम् Class 9 MCQs Questions with Answers

The Class 9 Sanskrit Chapter 3 MCQ with Answers is a great way for students to learn the fundamentals and prepare effectively. The content of MCQ of गोदोहनम् Class 9 with Answers is based on recent exam patterns, so you can be confident in your preparation!

अधोलिखितान् गद्यांशान् पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत

(क) (मल्लिका मोदकानि रचयन्ती मन्दस्वरेण शिवस्तुतिं करोति)
(ततः प्रविशति मोदकगन्धम् अनुभवन् प्रसन्नमना चन्दनः।)

चन्दनः – अहा! सुगन्धस्तु मनोहरः (विलोक्य) अये मोदकानि रच्यन्ते? (प्रसन्नः भूत्वा) आस्वादयामि तावत्। (मोदकं गृहीतुमिच्छति)
मल्लिका – (सक्रोधम्) विरम। विरम। मा स्पृश! एतानि मोदकानि।
चन्दनः – किमर्थं क्रुध्यसि! तव हस्तनिर्मितानि मोदकानि दृष्ट्वा अहं जिह्वालोलुपतां नियन्त्रयितुम् अक्षमः अस्मि, किं न जानासि त्वमिदम्?
मल्लिका – सम्यग् जानामि नाथ! परम् एतानि मोदकानि पूजानिमित्तानि सन्ति।
चन्दनः – तर्हि, शीघ्रमेव पूजनं सम्पादय। प्रसादं च देहि।
मल्लिका – भो! अत्र पूजनं न भविष्यति। अहं स्वसखिभिः सह श्वः प्रातः काशीविश्वनाथमन्दिरं प्रति गमिष्यामि, तत्र गङ्गास्नानं धर्मयात्राञ्च वयं करिष्यामः।
चन्दनः – सखिभिः सह! न मया सह! (विषादं नाटयति)।
मल्लिका – आम्! चम्पा, गौरी, माया, मोहिनी, कपिलाद्याः सर्वाः गच्छन्ति। अतः, मया सह तवागमनस्य औचित्यं नास्ति। वयं सप्ताहान्ते प्रत्यागमिष्यामः। तावत्, गृह व्यवस्था, धेनोः दुग्धदोहनव्यवस्थाञ्च परिपालय।

Question 1.
‘न मया सह’ अत्र वाक्यांशे ‘मया’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) चन्दनस्य
(ख) चन्दनाय
(ग) चन्दनः
(घ) चन्दनम्

Answer

Answer: (ख) चन्दनाय


Question 2.
‘मोदकानि’ इति पदस्य विशेषणपदं किम्?
(क) हस्तनिर्मितानि
(ख) परम्
(ग) इदम्
(घ) जिह्वा

Answer

Answer: (क) हस्तनिर्मितानि


Question 3.
‘प्रविशति’ इति क्रियापदस्य कर्तृपदम् किम्?
(क) प्रसन्नमना
(ख) चन्दनः
(ग) मोदकगन्धम्
(घ) अनुभवन्

Answer

Answer: (ख) चन्दनः


Question 4.
‘असमर्थः’ इति पदस्य पर्यायपदम् किम्?
(क) अक्षमः
(ख) तर्हि
(ग) विषादम्
(घ) विरम

Answer

Answer: (क) अक्षमः


Question 5.
धर्मयात्रायै का गमिष्यति?

Answer

Answer: मल्लिका


Question 6.
सुगन्धः कीदृशः अस्ति?

Answer

Answer: मनोहरः


Question 7.
मल्लिका कथम् शिवस्तुतिं करोति?

Answer

Answer: मल्लिका मोदकानि रचयन्ती मन्दस्वरेण शिवस्तुतिं करोति।


Question 8.
मल्लिकया सह का-का गमिष्यन्ति?

Answer

Answer: मल्लिकया सह चम्पा, गौरी, माया, मोहनी, कपिलाद्याः सर्वाः गमिष्यन्ति।


(ख) चन्दनः – अस्तु। गच्छ। सखिभिः सह धर्मयात्रया आनन्दिता च भव। अहं सर्वमपि परिपालयिष्यामि। शिवास्ते सन्तु पन्थानः।
चन्दनः – मल्लिका तु धर्मयात्रायै गता। अस्तु। दुग्धदोहनं कृत्वा ततः स्वप्रातराशस्य प्रबन्धं करिष्यामि। (स्त्रीवेषं धृत्वा, दुग्धपात्रहस्तः नन्दिन्याः समीपं गच्छति)
उमा – मातुलानि! मातुलानि!
चन्दनः – उमे! अहं तु मातुलः। तव मातुलानि तु गङ्गास्नानार्थं काशीं गता अस्ति। कथय! किं ते प्रियं करवाणि?
उमा – मातुल! पितामहः कथयति, मासानन्तरम् अस्मत् गृहे महोत्सवः भविष्यति। तत्र त्रिशत-सेटकमितं दुग्धम् अपेक्षते। एषा व्यवस्था भवद्भिः करणीया।
चन्दनः – (प्रसन्नमनसा) त्रिशत-सेंटककपरिमितं दुग्धम्! शोभनम्। दुग्धव्यवस्था भविष्यति एव इति पितामहं प्रति त्वया वक्तव्यम्।
उमा – धन्यवादः मातुल! याम्यधुना। (सा निर्गता)

Question 1.
‘गच्छामि’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) अधुना
(ख) यामि
(ग) निर्गता
(घ) अपेक्षते।

Answer

Answer: (ख) यामि


Question 2.
‘परिपालयिष्यामि’ इति क्रियापदस्य कर्तृपदं किम्?
(क) अहम्
(ख) चन्दनः
(ग) सर्वम्
(घ) सर्वमपि

Answer

Answer: (क) अहम्


Question 3.
‘किं ते प्रियं करवाणि’ अत्र ‘ते’ सर्वनाम पदं कस्यै प्रयुक्तम्?
(क) उमा
(ख) मल्लिका
(ग) उमायै
(घ) चन्दनाय

Answer

Answer: (ग) उमायै


Question 4.
‘आगता’ इति पदस्य विपरीतार्थकम् पदम् किम्?
(क) गता
(ख) अस्ति
(ग) सन्तु
(घ) भव

Answer

Answer: (क) गता


Question 5.
कस्याः पन्थानः शिवाः सन्तु?

Answer

Answer: मल्लिकायाः


Question 6.
कस्याः मातुलानि गङ्गास्नानार्थं काशीं गता?

Answer

Answer: उमायाः


Question 7.
दुग्धदोहनं कृत्वा चन्दनः किम् करिष्यति?

Answer

Answer: दुग्धदोहनं कृत्वा चन्दनः स्वप्रातराशस्य प्रबन्धं करिष्यति।


Question 8.
महोत्सवः कदा कुत्र च भविष्यति?

Answer

Answer: पितामहस्य गृहे मासान्तरम् महोत्सवः भविष्यति।


(ग) कुम्भकारः- (घटरचनायां लीनः गायति)
ज्ञात्वाऽपि जीविकाहेतोः रचयामि घटानहम्।
जीवनं भङ्गुरं सर्वं यथैष मृत्तिकाघटः।
चन्दनः – नमस्करोमि तात! पञ्चदश घटान् इच्छामि। किं दास्यसि?
देवेश – कथं न? विक्रयणाय एव एते। गृहाण घटान्। पञ्चशतोत्तर-रूप्यकाणि च देहि।
चन्दनः – साधु! परं मूल्यं तु दुग्धं विक्रीय एव दातुं शक्यते।
देवेशः – क्षम्यतां पुत्र! मूल्यं विना तु एकमपि घटं न दास्यामि।
मल्लिका – (स्वाभूषणं दातुमिच्छति) तात! यदि अधुनैव मूल्यम् आवश्यकं तर्हि, गृहाण एतत् आभूषणम्।
देवेशः – पुत्रिके! नाहं पापकर्म करोमि। कथमपि नेच्छामि त्वाम् आभूषणविहीनां कर्तुम्। नयतु यथाभिलषितान् घटान्। दुग्धं विक्रीय एव घटमूल्यम् ददातु।
उभौ – धन्योऽसि तात! धन्योऽसि।

Question 1.
‘नाहं पापकर्म करोमि” अत्र ‘करोमि’ इति क्रियापदस्य कर्तृपदम् किम्?
(क) नाहं
(ख) पाप
(ग) कर्म
(घ) अहम्

Answer

Answer: (घ) अहम्


Question 2.
‘त्वाम्’ इति सर्वनामपदम् कस्यै प्रयुक्तम्?
(क) मल्लिकायै
(ख) मल्लिका
(ग) उमायै
(घ) चन्दनाय

Answer

Answer: (क) मल्लिकायै


Question 3.
‘ग्रहीतुम्’ इति पदस्य विपरीतार्थकम् पदं किम्?
(क) क्षम्यतां
(ख) दातुम्
(ग) दास्यसि
(घ) हेतोः

Answer

Answer: (ख) दातुम्


Question 4.
‘चेत्’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) यदि
(ख) तर्हि
(ग) परं
(घ) विना
Question 5.
कुम्भकारः किमर्थं घटान् रचयति?

Answer

Answer: (क) यदि


Question 6.
जीवनं कीदृशं भवति?

Answer

Answer: भगुरं


Question 7.
किम् ज्ञात्वा कुम्भकारः घटान् रचयति?

Answer

Answer: यथा मृत्तिकाघटः तथा एव सर्वं जीवनं भगुरम् अस्ति एतत् ज्ञात्वा अपि कुम्भकारः जीविकाहेतोः घटान् रचयति।


Question 8.
घटमूल्यार्थं मल्लिका कस्मै किम् दातुम् इच्छति।

Answer

Answer: घटमूल्यार्थम् मल्लिका कुम्भकाराय स्वाभूषणं दातुम् इच्छति।


(घ) (मासानन्तरं सन्ध्याकालः। एकत्र रिक्ताः नूतनघटाः सन्ति। दुग्धक्रेतारः अन्ये च ग्रामवासिनः अपरत्र आसीनाः)

चन्दनः – (धेनुं प्रणम्य, मङ्गलाचरणं विधाय, मल्लिकाम् आह्वयति) मल्लिके! सत्वरम् आगच्छ।
मल्लिका – आयामि नाथ! दोहनम् आरभस्व तावत्।
चन्दनः – (यदा धेनोः समीपं गत्वा दोग्धुम् इच्छति, तदा धेनुः पृष्ठपादेन प्रहरति। चन्दनश्च पात्रेण सह पतति) नन्दिनि! दुग्धं देहि। किं जातं ते? (पुनः प्रयासं करोति)(नन्दिनी च पुनः पुनः पादप्रहारेण ताडयित्वा चन्दनं रक्तरञ्जितं करोति) हा! हतोऽस्मि। (चीत्कारं कुर्वन् पतति) (सर्वे आश्चर्येण चन्दनम् अन्योन्यं च पश्यन्ति)
मल्लिका – (चीत्कारं श्रुत्वा, झटिति प्रविश्य) नाथ! किं जातम्? कथं त्वं रक्तरञ्जितः?
चन्दनः – धेनुः दोग्धुम् अनुमतिम् एव न ददाति। दोहनप्रक्रियाम् आरभमाणम् एव ताडयति माम्।
(मल्लिका धेनुं स्नेहेन वात्सल्येन च आकार्य दोग्धुं प्रयतते। किन्तु, धेनुः दुग्धहीना एव इति अवगच्छति।)

Question 1.
‘ग्रामवासिनः’ इति पदस्य विशेषणपदं किम्?
(क) अन्ये
(ख) दुग्धक्रेतारः
(ग) अपरत्र
(घ) आसीनाः

Answer

Answer: (क) अन्ये


Question 2.
‘पश्यन्ति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) चन्दनम्
(ख) अन्योन्यं
(ग) सर्वे
(घ) आश्चर्येण

Answer

Answer: (ग) सर्वे


Question 3.
‘शीघ्रम्’ इति पदस्य समानार्थकम् पदं किम्?
(क) झटिति
(ख) चीत्कारं
(ग) कुर्वन्
(घ) पुनः पुनः

Answer

Answer: (क) झटिति


Question 4.
‘त्वं रक्तरञ्जितः’ अत्र ‘त्वं’ सर्वनामपदं कस्मै प्रयुक्तम्?
(क) चन्दनः
(ख) चन्दनाय
(ग) मल्लिकायै
(घ) उमायै

Answer

Answer: (ख) चन्दनाय


Question 5.
धेनोः नाम किम् अस्ति?

Answer

Answer: नन्दिनी


Question 6.
पात्रेण सह कः पतति?

Answer

Answer: चन्दनः


Question 7.
मल्लिका कथम् दोग्धुम् प्रयतते?

Answer

Answer: मल्लिका धेनुं स्नेहेन वात्सल्येन च आकार्य दोग्धुं प्रयतते।


Question 8.
चन्दनः किम् कृत्वा मल्लिकाम् आह्वयति?

Answer

Answer: धेनुम् प्रणम्य मङ्गलाचरणं च विधाय चन्दनः मल्लिकाम् आह्वयति।


अधोलिखितकथनेषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत

(i) प्रसन्नः सः धेनोः बहुसेवां करोति।
(ii) द्वावेव धेनोः सेवायां निरतौ भवतः।
(iii) ग्रामप्रमुखस्य गृहे महोत्सवः भविष्यति।
(iv) मल्लिका तु धर्मयात्रायै गता।
(v) तव मातुलानि तु काशीं गता।

Answer

Answer:
(i) प्रसन्नः सः कस्याः बहुसेवां करोति?
(ii) द्वावेव धेनोः कस्याम् निरतौ भवतः?
(iii) कस्य गृहे महोत्सवः भविष्यति?
(iv) का तु धर्मयात्रायै गता?
(v) तव मातुलानि तु कुत्र गता?


निम्नलिखितश्लोकानाम् अन्वयेषु समुचितपदैः रिक्तपूर्तिः कुरुत

1. कार्यमद्यतनीयं यत् तदद्यैव विधीयताम्।
विपरीते गतिर्यस्य स कष्टं लभते ध्रुवम्।।

अन्वयः- यत् अद्यतनीयं (i) ……………….. तत् अद्यैव (ii) ………………. । यस्य गतिः (iii) …………… सः ध्रुवं (iv)…………………. लभते।

Answer

Answer:
यत् अद्यतनीयं (i) कार्यं तत् अद्यैव (ii) विधीयताम्। यस्य गतिः (iii) विपरीते (अस्ति) सः ध्रुवं (iv) कष्टं लभते।


2. सुविचार्य विधातव्यं कार्यं कल्याणकाक्षिणा।
यः करोत्यविचार्यैतत् स विषीदति मानवः।।

अन्वयः- (i) ………………. कार्यं (ii) ………………….. विधातव्यम्। यः (iii) ………………… एतत् (iv) ……………….. करोति सः विषीदति।

Answer

Answer:
(i) कल्याणकाङ्क्षिणा कार्य (ii) सुविचार्य (एव) विधातव्यम्। यः (iii) मानवः एतत् (iv) अविचार्य करोति सः विषीदति।


3. आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः।
क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम्।।

अन्वयः- क्षिप्रम् (i) ……………… आदानस्य (ii) ………….. कर्तव्यस्य च (iii) …………….. तद्रसं (iv) ……………….. पिबति।

Answer

Answer:
क्षिप्रम् (i) अक्रियमाणस्य आदानस्य (ii) प्रदानस्य कर्तव्यस्य च (iii) कर्मणः तद्रसं (iv) काल: पिबति।


अधोलिखितश्लोकानाम् भावार्थान् मञ्जूषातः उचितपदानि चित्वा पूरयत

(i) आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः।
क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम्॥

भावार्थ:-श्लोकस्यं भावः अस्ति यत् कोऽपि कार्यम् (i) …………….. समये (ii) ……………… भवति, तदा (iii) ……………… कार्यस्य (iv) ……………. नश्यति।
मञ्जूषा- आनन्दं, न, उचिते, तस्य

Answer

Answer: श्लोकस्य भावः अस्ति यत् कोऽपि कार्यम् उचिते समये न भवति, तदा तस्य कार्यस्य आनन्दं नश्यति।


(ii) ज्ञात्वाऽपि जीविकाहेतोः रचयामि घटानहम्।
जीवनं भङ्गुरं सर्वं यथैष मृत्तिकाघटः॥

भावार्थ:-कुम्भकारः संसारस्य (i) ……………….. जानाति यथा (ii) ……………… घटः नश्यति तथैव मानवस्य जीवनम् अपि (iii) ………….. अस्ति। अतः सः तु केवलम् (iv) …………….. एव घटान् रचयति।
मञ्जूषा- जीविकाहेतोः, नश्वरता, मृत्तिकायाः, क्षणभङ्गुरम्

Answer

Answer: कुम्भकारः संसारस्य नश्वरता जानाति यथा मृत्तिकायाः घटः नश्यति तथैव मानवस्य जीवनम् अपि क्षणभङ्गुरम् अस्ति। अतः सः तु केवलम् जीविकाहेतोः एव घटान् रचयति।


(iii) सुविचार्य विधातव्यं कार्यं कल्याणकाङ्क्षिणा।
यः करोत्यविचार्यैतत् स विषीदति मानवः॥

भावार्थ:- अस्य श्लोकस्य भावः अस्ति यत् स्वकल्याणं (i) …………. मानवः स्वकार्याणि (ii) ……………… विचार्य एव कुर्यात्। यः मानवः अविवेकेन (iii)……………… कार्यं करोति सः जीवने केवलं (iv) ………….. एव आप्नोति।
मञ्जूषा- दु:खम्, इच्छन्, सम्यक्रूपेण, अविचार्य

Answer

Answer: अस्य श्लोकस्य भावः अस्ति यत् स्वकल्याणं इच्छन् मानवः स्वकार्याणि सम्यक्पेण विचार्य एव कुर्यात्। यः मानवः अविवेकेन अविचार्य कार्यं करोति सः जीवने केवलं दुःखम् एव आप्नोति।


घटनाक्रमानुसारं अधोलिखितानि वाक्यानि पुनः लेखनीयानि

(i) नन्दिनी च पुनः पुनः पादप्रहारेण ताडयित्वा चन्दनं रक्तरञ्जितं करोति।
(ii) मल्लिका धेनुं स्नेहेन वात्सल्येन च आकार्य दोग्धुं प्रयतते।
(iii) यदि अधुनैव मूल्यं आवश्यकं तर्हि गृहाण एतत् आभूषणम्।
(iv) अधुना दुग्धदोहनं विहांय केवलं नन्दिन्याः सेवाम् एव करिष्यावः।
(v) दुग्धव्यवस्था भविष्यति एव इति पितामह प्रति त्वया वक्तव्यम्।
(vi) तव हस्तनिर्मितानि मोदकानि दृष्ट्वा अहं जिह्वालोलुपतां नियन्त्रयितुम् अक्षमः अस्मि।
(vi) अहम् स्वसखिभिः सह श्वः प्रातः काशीविश्वनाथमन्दिरं प्रति गमिष्यामि।
(viii) अस्माभिः सर्वथा अनुचितमेव कृतं यत्, पूर्णमासपर्यन्तं दोहनम् न कृतम्।

Answer

Answer:
(i) तव हस्तनिर्मितानि मोदकानि दृष्ट्वा अहं जिह्वालोलुपता नियन्त्रयितुम् अक्षमः अस्मि।
(ii) अहम् स्वसखिभिः सह श्वः प्रातः काशीविश्वनाथमन्दिरं प्रति गमिष्यामि।
(iii) दुग्धव्यवस्था भविष्यति एव इति पितामह प्रति त्वया वक्तव्यम्।
(iv) अधुना दुग्धदोहनं विहाय केवलं नन्दिन्याः सेवाम् एव करिष्यावः।
(v) यदि अधुनैव मूल्यं आवश्यकं तर्हि गृहाण एतत् आभूषणम्।
(vi) नन्दिनी च पुनः पुनः पादप्रहारेण ताडयित्वा चन्दनं रक्तरञ्जितं करोति।
(vii) मल्लिका धेनुं स्नेहेन वात्सल्येन च आकार्य दोग्धुं प्रयतते।
(viii) अस्माभिः सर्वथा अनुचितमेव कृतं यत्, पूर्णमासपर्यत्तं दोहनं त कृतम्।


रेखाङ्कितपदानाम् प्रसङ्गानुसारं शुद्धम् अर्थ चित्वा लिखत

Question 1.
अहम् जिह्वालोलुपतां नियन्त्रयितुम् अक्षमः अस्मि।
(क) असमर्थः
(ख) आगतः
(ग) आश्चर्यः
(घ) अनवरत

Answer

Answer: (क) असमर्थः


Question 2.
उत्सवदिने एव समग्रं दुग्धं धोक्ष्यावः।
(क) सहायः
(ख) सम्पूर्णम्
(ग) सम्पूर्णः
(घ) सहायकः

Answer

Answer: (ख) सम्पूर्णम्


Question 3.
मङ्गलाचरणं विधाय चन्दनः मल्लिकाम् आह्वयति।
(क) विधि
(ख) विधाता
(ग) कृत्वा
(घ) कर्तव्यः

Answer

Answer: (ग) कृत्वा


Question 4.
सः ध्रुवं कष्टं लभते।
(क) निश्चितम्
(ख) निश्चयम्
(ग) अनिश्चयम्
(घ) नक्षत्रम्

Answer

Answer: (क) निश्चितम्


‘क’ स्तम्भे लिखितानां पर्यायपदानि ‘ख’ स्तम्भे लिखितानि सन्ति। तानि यथासमक्ष लिखत

‘क’ स्तम्भ – ‘ख’ स्तम्भ
(i) निरतौ – द्रुतम्
(ii) रिक्ताः – संलग्नौ
(ii) अनुमतिम् – शून्याः
(iv) क्षिप्रम् – आज्ञा

Answer

Answer:
‘क’ स्तम्भः – ‘ख’ स्तम्भः
(i) निरतौ – संलग्नौ
(ii) रिक्ताः – शून्याः
(iii) अनुमतिम् – आज्ञा
(iv) क्षिप्रम् – द्रुतम्


अधोलिखितपदानां मञ्जूषातः चित्वा विलोमपदानि लिखत

मञ्जूषा- सरसम्, गता, आगच्छामि, प्रसीदति
पदानि – विलोमपदानि
(i) आगता – …………..
(ii) शुष्कम् – ……………..
(iii) यामि – ……………..
(iv) विषीदति – …………….

Answer

Answer:
पदानि – विलोमपदानि
(i) आगता – गता
(ii) शुष्कम् – सरसम्
(iii) यामि – आगच्छामि
(iv) विषीदति – प्रसीदति


We hope you found this NCERT MCQ Questions for Class 9 Sanskrit Chapter 3 गोदोहनम् with Answers Pdf free download helpful. If you have any questions about CBSE Class 9 Sanskrit गोदोहनम् MCQs Multiple Choice Questions with Answers, please share them in the comment box below and we will get back to you at the earliest possible time.

error: Content is protected !!