CBSE Class 6 Sanskrit रचना अपठित-अवबोधनम्

We are offering NCERT Solutions for Class 6 Sanskrit रचना अपठित-अवबोधनम् Questions and Answers can be used by students as a reference during their preparation.

CBSE Class 6 Sanskrit रचना अपठित-अवबोधनम्

प्रश्न 1
एकस्मिन् ग्रामे कश्चित् निर्धनः युवकः आसीत्। तस्य नाम धनपालः आसीत्। सः प्रतिदिनं भिक्षायै ग्राम ग्राम प्रति भ्रमति स्म। प्राप्तैः सक्तुभिः तस्य घटः पूर्णः अभवत्। सः घटं नागदन्ते अवलम्ब्य खट्वायां शयनं करोति स्म।

I. एकपदेन उत्तरत
(i) निर्धनः कः आसीत्?
उत्तर:
युवकः

(ii) युवकः कुत्र आसीत्?
उत्तर:
ग्रामे

(iii) सः किमर्थं ग्रामं ग्राम प्रति भ्रमति स्म?
(क) भिक्षायै
(ख) अन्नाय
(ग) जलाय
(घ) वस्त्राय।
उत्तर:
(क) भिक्षायै

(iv) सक्तुभिः कः पूर्णः आसीत्?
(क) घटः
(ख) प्रकोष्ठः
(ग) जलाशयः
(घ) गर्तः।
उत्तर:
(क) घटः

CBSE Class 6 Sanskrit रचना अपठित-अवबोधनम्

II. पूर्णवाक्येन उत्तरत
युवकस्य नाम किम् आसीत्? निर्देशानुसारम् उत्तरत
उत्तर:
युवकस्य नाम धनपालः आसीत्।

(i) ‘आसीत्’ इत्यत्र कः लकार:?
उत्तर:
लङ्।

(ii) ‘भिक्षायै इत्यत्र का विभक्तिः ?
(क) तृतीया
(ख) चतुर्थी
(ग) षष्ठी
(घ) सप्तमी
उत्तर:
(ख) चतुर्थी

CBSE Class 6 Sanskrit रचना अपठित-अवबोधनम्

प्रश्न 2
स्वास्थ्यलाभाय प्रतिदिनं व्यायामः करणीयः। व्यायामेन शरीरं स्वस्थं भवति। रक्तस्य सञ्चारः सम्यग् भवति। जठराग्निः दीप्तः भवति। उदरं न परिवर्धते। मस्तिष्कम् उर्वरं भवति।

I. एकपदेन उत्तरत
(i) प्रतिदिनं किं करणीयम्?
उत्तर:
व्यायाम:।

(ii) व्यायामेन किं स्वस्थं भवति?
उत्तर:
शरीरम्

(iii) कस्य सञ्चारः सम्यग भवति?
उत्तर:
रक्तस्य

(iv) व्यायामेन किं न परिवर्धते?
(क) उदरम्
(ख) हस्तः
(ग) पादः
(घ) नासिका।
उत्तर:
(क) उदरम्

CBSE Class 6 Sanskrit रचना अपठित-अवबोधनम्

II. पूर्णवाक्येन उत्तरत
व्यायामेन किम् उर्वरं भवति?
उत्तर:
व्यायामेन मस्तिष्कम् उर्वरं भवति।

III. निर्देशानुसारम् उत्तरत
(i) ‘भवति’ इत्यत्र को लकार:?
उत्तर:
लट

(ii) ‘व्यायामेन’ इत्यत्र का विभक्तिः ?
(क) चतुर्थी
(ख) तृतीया
(ग) षष्ठी
(घ) सप्तमी।
उत्तर:
(ख) तृतीया।

CBSE Class 6 Sanskrit रचना अपठित-अवबोधनम्

प्रश्न 3.
पुरा अयोध्यायाः राजा दशरथः आसीत्। तस्य त्रयः पुत्राः आसन्। तेषु श्रीरामः ज्येष्ठः आसीत्। श्रीरामस्य पत्नी सीता आसीत्। सत्यस्य पालनाय दशरथः श्रीरामं वनं प्रैषयत्। वने रावणः सीताम् अपाहरत्। श्रीरामः रावणं हत्वा सीतां मोचितवान्।
I. एकपदेन उत्तरत
(i) अयोध्यायाः राजा कः आसीत्?
उत्तर:
दशरथः

(ii) दशरथस्य कति पुत्राः आसन्?
(क) चत्वारः
(ख) त्रयः
(घ) पञ्च।
उत्तर:
(क) चत्वारः

(iii) श्रीरामस्य पत्नी का आसीत्?
(क) सुमित्रा
(ख) कौसल्या
(ग) सीता
(घ) दमयन्ती।
उत्तर:
(ग) सीता

(iv) कः सीताम् अपाहर?
(क) रावणः
(ख) मेघनादः
(ग) लक्ष्मणः
(घ) भरतः।
उत्तर:
(क) रावणः

CBSE Class 6 Sanskrit रचना अपठित-अवबोधनम्

II. पूर्णवाक्येन उत्तरत
दशरथः कं वनं प्रैषय?
उत्तर:
दशरथः श्रीरामं वनं प्रैषयत्।

III. निर्देशानुसारम् उत्तरत
(i) ‘हत्वा’ इत्यत्र कः प्रत्ययः?
(क) क्त्वा
(ख) आ
(ग) ता
(घ) वा।
उत्तर:
(क) क्त्वा

(ii) ‘अपाहरत्’ इत्यत्र को लकार:?
(क) लट्
(ख) लोट्
(ग) लङ्
(घ) लृट।
उत्तर:
(ग) लङ्

CBSE Class 6 Sanskrit रचना अपठित-अवबोधनम्

प्रश्न 4.
आकाशे बहवः ग्रहाः सन्ति। सूर्यः विशालं नक्षत्रम् अस्ति। चन्द्रः एकः उपग्रहः अस्ति। पृथिवी सूर्य परितः प्रतिदिनं भ्रमति। सौरमण्डले नव ग्रहाः सन्ति। बृहस्पतिः विशालतमः अस्ति। सूर्यः प्रकाशं यच्छति। सूर्यः उष्णताम् अपि यच्छति।

I. एकपदेन उत्तरत
(i) आकाशे के सन्ति?
उत्तर:
ग्रहाः

(ii) विशालं नक्षत्रं कः अस्ति?
उत्तर:
सूर्यः

(iii) उपग्रहः कः अस्ति?
(क) पृथिवी
(ख) चन्द्रः
(ग) शनिः
(घ) गुरुः।
उत्तर:
(ख) चन्द्रः

(iv) कः प्रकाशं यच्छति?
(क) शुक्रः
(ख) सूर्यः
(ग) गुरुः
(घ) बुधः
उत्तर:
(ख) सूर्यः

CBSE Class 6 Sanskrit रचना अपठित-अवबोधनम्

II. पूर्णवाक्येन उत्तरत
विशालतमः ग्रहः कः अस्ति?
उत्तर:
विशालतमः ग्रहः बृहस्पतिः अस्ति।

III. निर्देशानुसारम् उत्तरत
(i) ‘यच्छति’ इत्यत्र कः धातुः?
(क) यत्
(ख) यच्छ्
(ग) दा
(घ) छा।
उत्तर:
(ग) दा

(ii) ‘उष्णता’ इत्यत्र कः प्रत्ययः?
(क) ता
(ख) आ
(ग) अता
(घ) आता।
उत्तर:
(क) ता

CBSE Class 6 Sanskrit रचना अपठित-अवबोधनम्

प्रश्न 5.
मोक्षः चतुर्थः पुरुषार्थः। प्रथमः पुरुषार्थः धर्मः अस्ति। मोक्षो नाम दु:खेभ्यः सर्वथा मुक्तिः। ‘निर्वाणम्’ इति मोक्षस्य अपरनाम। धर्मेण एव मोक्षः लभ्यते। संसारे धर्मः एव जीवनस्य सारः अस्ति।

I. एकपदेन उत्तरत
(i) चतुर्थः पुरुषार्थः कः अस्ति?
उत्तर:
मोक्षः

(ii) प्रथमः पुरुषार्थः कः अस्ति?
उत्तर:
धर्मः

(iii) मोक्षस्य अपरनाम किम् अस्ति?
उत्तर:
निर्वाणम्

(iv) धर्मेण कः लभ्यते?
उत्तर:
मोक्षः

CBSE Class 6 Sanskrit रचना अपठित-अवबोधनम्

II. पूर्णवाक्येन उत्तरत
जीवनस्य सारः किम् अस्ति?
उत्तर:
जीवनस्य सारः धर्मः एव अस्ति।

III. निर्देशानुसारम् उत्तरत
(i) ‘अस्ति’ इत्यत्र कः धातुः?
(क) भू
(ख) अस्
(ग) नम्
(घ) अस्त।
उत्तर:
(ख) अस्

(ii) ‘धर्मेण’ इत्यत्र का विभक्तिः ?
(क) तृतीया
(ख) चतुर्थी
(ग) षष्ठी
(घ) पञ्चमी।
उत्तर:
(क) तृतीया

CBSE Class 6 Sanskrit रचना अपठित-अवबोधनम्

error: Content is protected !!